|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.70. अध्यायः 070
Mahabharata - Drona Parva - Chapter Topics
सृञ्जयम्प्रति नारदेन परशुरामप्रभाववर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-70-0x(4432)(47272)
रामो महातपाः शूरो वीरो लोकनमस्कृतः।
जामदग्न्योऽप्यतियशा अवितृप्तो मरिष्यति॥ 7-70-1(47273)
यश्चास्त्रमनुपर्येति भूमिं कुर्वन्विपांसुलाम्।
नचासीद्विक्रिया यस्य प्राप्य श्रियमनुत्तमाम्॥ 7-70-2(47274)
`जामदग्न्यो न ते राजन्कच्चिच्छ्रोत्रमुपागतः।
येनैकेन पुरा राजन्क्रुद्धेन हतबन्धुना॥ 7-70-3(47275)
भृगुभिस्ताम्भमानेन त्राहि रामेति विस्वरम्।
त्रिःसप्तकृत्वो भूमिर्यत्कृता निःक्षत्रिया पुरा'॥ 7-70-4(47276)
यः क्षत्रियैः परामृष्टे वत्से पितरि चाब्रुवन्।
ततोऽवधीत्कार्तवीर्यमजितं समरे परैः॥ 7-70-5(47277)
क्षत्रियाणां चतुःषष्टिमयुतानि सहस्रशः।
तदा मृत्योः समेतानि एकेन धनुषाऽजयत्॥ 7-70-6(47278)
ब्रह्मद्विषां चाथ तस्मिन्हस्राणि चतुर्दश।
पुनरन्यान्निजग्राह दन्तकूरे जघान ह॥ 7-70-7(47279)
सहस्रं मुसलेनाहन्सहस्रमसिनाऽवधीत्।
उद्बन्धनात्सहस्रं च सहस्रमुदके कृतम्॥ 7-70-8(47280)
दन्तान्भङ्क्त्वा सहस्रस्य भिन्नकर्णांस्तथाऽकरोत्।
ततः सप्तसहस्राणां कुटुधृपमपाययत्॥ 7-70-9(47281)
शिष्टान्वध्वा च हत्वा वै तेषां मृर्ध्नि विभिद्य च।
गुणावतीमुत्तरेण खाण्डवाद्दक्षिणेन च।
गिर्यन्ते शतसाहस्रा हैहयाः समरे हताः॥ 7-70-10(47282)
सरथाश्वगजा वीरा निहतास्तत्र शेरते।
पितुर्वधामर्षितेन जामदग्न्येन धीमता॥ 7-70-11(47283)
निजघ्ने दशसाहस्रान्रामः परशुना तदा।
न ह्यमृष्यत ता वाचो यास्तैर्भृशमुदीरिताः॥ 7-70-12(47284)
भृगौ रामाभिधावेति यदाक्रन्दन्द्विजोत्तमाः।
ततः काश्मीरदरदान्कुन्तिक्षुद्रकमालवान्॥ 7-70-13(47285)
अङ्गवङ्गकलिङ्गांश्च विदेहांस्ताम्रलिप्तकान्।
रक्षोवाहान्वीतिहोत्रांस्त्रिगर्तान्मार्तिकावतान्॥ 7-70-14(47286)
शिबीनन्यांश्च राजन्यान्देशान्देशान्सहस्रशः।
निजघान शितैर्बाणैर्जामदग्न्यः प्रतापवान्॥ 7-70-15(47287)
कोटीशतसहस्राणि क्षत्रियाणां सहस्रशः।
इन्द्रगोपकवर्णस्य बन्धुजीवनिभस्य च॥ 7-70-16(47288)
रुधिरस्य परीवाहैः पूरयित्वा सरांसि च।
सर्वानष्टादश द्वीपान्वशमानीय भार्गवः॥ 7-70-17(47289)
ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः।
वेदीमष्टनलोत्सेधां सौवर्णां विधिनिर्मिताम्॥ 7-70-18(47290)
सर्वरत्नशतैः पूर्णां पताकाशतमालिनीम्।
ग्राम्यारण्यैः पशुगणैः सम्पूर्णां च महीमिमाम्॥ 7-70-19(47291)
रामस्य जामदग्न्यस्य प्रतिजग्राह कश्यपः।
ततः शतसहस्राणि द्विपेन्द्रान्हेमभूषणान्॥ 7-70-20(47292)
निर्दस्युं पृथिवीं कृत्वा शिष्टेष्टजनसङ्कुलाम्।
कश्यपाय ददौ रामो हयमेधे महामखे॥ 7-70-21(47293)
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः।
इष्ट्वा क्रतुशतैर्वीरो ब्राह्मणेभ्यो ह्यमन्यत॥ 7-70-22(47294)
सप्तद्वीपां वसुमतीं मारीचोऽगृह्णत द्विजः।
रामं प्रोवाच निर्गच्छ वसुधातो ममाज्ञया॥ 7-70-23(47295)
स कश्यपस्य वचनात्प्रोत्सार्य सरिताम्पतिम्।
इषुपाते युधां श्रेष्ठः कुर्वन्ब्राह्मणशासनम्॥ 7-70-24(47296)
अध्यावसद्गिरिश्रेष्ठं महेन्द्रं पर्वतोत्तमम्।
एवं गुणशतैर्युक्तो भृगूणां कीर्तिवर्धनः॥ 7-70-25(47297)
जामदग्न्यो ह्यतियशा मरिष्यति महाद्युतिः।
त्वया चतुर्भद्रतरः पुण्यात्पुण्यतरस्तव॥ 7-70-26(47298)
अयज्वानमदक्षिण्यं मा पुत्रमनुतप्यथाः।
एते चतुर्भद्रतरास्त्वया भद्रशताधिकाः।
मृता नरवरश्रेष्ठ मरिष्यन्ति च सृञ्जय॥ ॥ 7-70-27(47299)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्ततितमोऽध्यायः॥ 70 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-70-1 ये मृतास्तेऽतीता ये वर्तमानास्तेऽपि। मरिष्यन्त्येवेत्याह राम इति॥ 5-70-5 क्षत्रियैः कार्तवीर्यपुत्रैः। अब्रुवन्नविकत्थयन्॥ 5-70-6 मृत्योर्मृत्युमवधीकृत्य॥ 5-70-7 तस्मिंस्तन्मध्ये एव। दन्तक्रूरमिति पाठे तद्देशाधिपतिम्॥ 5-70-8 उद्बन्धनाद्वृक्षशाखावलम्बनात्॥ 5-70-9 कणधूममपाययत् इति क.ङ.पाठः॥ 5-70-12 तैराश्रमवासिभिः॥ 5-70-18 अष्टनलेत्यत्र नलशब्दश्चतुर्हस्तवचनः॥ 5-70-70 सप्ततितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|